ज्ञानम् (jnanam) - Meaning in English
ज्ञानम् - Meaning in English
We are constantly improving our dictionaries. Still, it is possible that some words are not available. You can ask other members in forums, or send us email. We will try and help.
Definitions and Meaning of ज्ञानम् in Sanskrit
ज्ञानम् noun
the psychological result of perception and learning and reasoning
Synonyms
विद्या
cognition, knowledge, noesis
the trait of utiliz...Subscribe
wisdom, ...Subscribe
Synonyms
अभिज्ञानम्, अवगमः, अवबोधः, उद्बोधः, उपलब्धिः, उपलम्भः, ज्ञप्तिः, ज्ञातृत्वम्, दोधनम्, निर्वेध, परिज्ञानम्, प्रज्ञा, प्रतीतिः, प्रबोधः, प्रमा, प्रमितिः, बोधः, विज्ञानम्, विपश्यम्, वेत्तृत्वम्, वेदनम्, समुदागमः, संवेदनःसंवेदनम्
Synonyms
शिक्षा
Description
ज्ञानम् इत्येतस्य शब्दस्य विविधाः अर्थाः विद्यन्ते -
- १ ज्ञा (अवबोधने) भावे ल्युट् (३-३-११५) । ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । (रघुवंश-१-२२)
- २ मोक्षविषयिणी बुद्धिः
- ३ परमात्मनः स्वरूपं यत् ज्ञापयति तत् । ज्ञायतेऽनेनात्मा-ज्ञा कर ल्युट् (३-३-११७) । इदं ज्ञानम् आत्मज्ञानसाधकम् ।
- आत्मज्ञानसाधकाः गुणाः
- अमानित्वम् - ज्येष्ठानां विषये तिरस्कारदर्शनसदृशस्य अभिमानस्य (अहङ्कारस्य) राहित्यम् ।
- अदम्भित्वम् - कीर्तेः प्राप्त्यर्थं धर्मकार्याचरणरूपस्य दम्भस्य अभावः ।
- अहिंसा त्रिकरणैः अन्येषाम् अपीडनम् ।
- क्षान्तिः - अन्यैः पीड्यमानः अस्ति चेदपि तेषां विषये अप्रतीकारभावः ।
- आर्जवम् - त्रिकरणैः क्रियमाणेषु कार्येषु कौटिल्यराहित्यम् ।
- आचार्योपासनम् - आत्मज्ञानप्रादातॄणाम् आचार्याणां सेवा ।
- शौचम् - लोभः, अनृतम्, निषिद्धाहारसेवनम् इत्येतादृशीनाम् अशुचीनां राहित्यम् ।
- स्थैर्यम् - शास्त्रेषु उक्तेषु विषयेषु श्रद्धा, अन्येषाम् उपदेशतः मनोचाञ्चल्यस्य अप्राप्तिः ।
- आत्मविनिग्रहः - आत्मस्वरूपात् अतिरिक्तेषु विषयेषु मनसः प्रवृत्तेः निग्रहणम् ।
- इन्द्रियार्थेषु वैराग्यम् - आत्मव्यतिरिक्तेषु विषयेषु दोषबुद्ध्या विरक्तिः ।
- अनहङ्कारः - आत्मभिन्नस्य शरीरस्य विषये निरभिमानः । आत्मसम्बन्धरहितेषु वस्तुषु ममकारत्यागः ।
- जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् - जन्म-मृत्यु-जरा-व्याधिभिः प्राप्यमाणाः दुःखरूपाः दोषाः शरीरसहजम् अपरिहार्यञ्च इति अवगमनम् ।
- असक्तिः - आत्मव्यतिरिक्तेषु विषयेषु आशायाः परित्यागः, तेषां सम्बन्धस्य परित्यागः च ।
- पुत्रदारगृहादिषु अनभिष्वङ्गः - पुत्राः, पत्नी, गृहम् इत्येतेषु विषयेषु मोहस्य त्यागः, सम्बन्धत्यागः च ।
- इष्टानिष्टोपपत्तिषु समचित्तत्वम् - इष्टवस्तुनः प्राप्तितः अति हर्षः, अनिष्टवस्तुनः प्राप्तितः दुःखम् इत्येतादृशं चित्तविकारराहित्यम् ।
- अनन्ययोगेन अव्यभिचारिणी भक्तिः - परमात्मनि अनन्यचित्तेन स्थिरा भक्तिः ।
- विविक्तदेशसेवित्वम् - निर्जने प्रदेशे एकान्तवासः ।
- अरतिर्जनसंसदि - पामरजनानां समूहे सम्मिलने अनासक्तिः ।
- अध्यात्मज्ञाननित्यत्वम् - अनवरतं ब्रह्मज्ञाने स्थितिः ।
- तत्त्वज्ञानार्थचिन्तनम् - तत्त्वज्ञानस्य फलरूपस्य मोक्षस्य चिन्तने मग्नता ।
- एतैः गुणैः आत्मज्ञानं प्राप्यते इत्यतः इदमेव ज्ञानम् । एतस्य व्यतिरिक्तं सर्वम् अज्ञानम् इति मन्तव्यम् ।
- एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा गीता १३-११
- ४ कर्तव्य-कार्यविषयकं ज्ञानम् - अनुष्ठातव्यस्य कार्यस्य विषये अवगमनम् ।
- ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः गीता १८-१८ इदं ज्ञानं त्रिविधम् - सात्त्विकं, राजसं, तामसं चेति ।
- ज्ञानं कर्म च कर्ता च त्रिधैव गुनभेदतः । प्रोच्यते गुणसङ्ख्याने यथावत् शृणु तान्यपि - गीता १८-१९
- ब्राह्मण-क्षत्रिय-ब्रह्मचारी-गृहस्थादिषु विभिन्नेषु रूपेषु विद्यमानः आत्मा ज्ञानैककारः, अविनाशी, विकाररहितः, फलादिसम्बन्धविहीनः इति अवगमनात् सर्वेषु वस्तुषु समदृष्टिः एव सात्त्विकं ज्ञानम् ।
- ब्राह्मण-क्षत्रिय-ब्रह्मचारी-गृहस्थादिषु विभिन्नेषु रूपेषु विद्यमानानि आत्मवस्तूनि भिन्नानि इति अवगमनम् राजसं ज्ञानम् ।
- कस्मिंश्चित् कार्ये इदं सम्पूर्णफलप्रदम् इति धिया आसक्तिः या भवेत् सा मिथ्याभूतार्थविषयिणी अल्पफलविषयिणी च । इदं तामसं ज्ञानम् ।
- सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
- पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
- यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहेतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ - गीता १८-२०, २१,२२
- ५ चित्तवृत्तिनिरोधरूपः योगः
- एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः । आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम् ॥
- ६ (अद्वैतमते) अहं ब्रह्म इति उपासना ।
- ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ।
- ७ जीव-ईश्वर-जगत्-इत्येतस्याः भ्रान्तेः अधिष्ठानभूतं स्वयंप्रकाशं चैतन्यम् ।
- ८ साङ्गवेदाध्ययनम् अर्थावगमनञ्च ।
- ९ वेदः - ज्ञा कर ल्युट् (३-३-११७)
- १० शास्त्रम्
- ११ इन्द्रियम् - ज्ञायतेऽनेन ज्ञा कर ल्युट्
Wisdom, sapience, or sagacity is the ability to contemplate and act productively using knowledge, experience, understanding, common sense, and insight. Wisdom is associated with attributes such as unbiased judgment, compassion, experiential self-knowledge, self-transcendence, and non-attachment, and virtues such as ethics and benevolence.
Also see "ज्ञानम्" on WikipediaWhat is ज्ञानम् meaning in English?
The word or phrase ज्ञानम् refers to the psychological result of perception and learning and reasoning, or the trait of utilizing knowledge and experience with common sense and insight, or the quality of being prudent and sensible, or ability to apply knowledge or experience or understanding or common sense and insight, or clear or deep perception of a situation, or accumulated knowledge or erudition or enlightenment. See ज्ञानम् meaning in English, ज्ञानम् definition, translation and meaning of ज्ञानम् in English. Learn and practice the pronunciation of ज्ञानम्. Find the answer of what is the meaning of ज्ञानम् in English.
Tags for the entry "ज्ञानम्"
What is ज्ञानम् meaning in English, ज्ञानम् translation in English, ज्ञानम् definition, pronunciations and examples of ज्ञानम् in English.